________________
योग
तृतीय प्रकाशा
शास्त्रम्
॥५३८॥
मुक्तलक्षणस्य वश्मना मान्दरस्य, कुयोद विदध्यात् इति श्लोकषट्कनाक्तान् मनोरथान्, किावशिष्टान् । परानन्दलताकन्दान् परश्वासावानन्दश्च स एव लता तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दाल्लता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥१४७॥ ____ अथोपसंहरतिइत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥१४८॥
इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चर्या समाचाररूपामप्रमत्तः प्रमादरहितः समाचारन् सम्यक कुर्वन् , उक्तं जिनागमेऽभिहितं यद् वृत्त प्रतिमादिलक्षण तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यविधिना, गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति । ___ अथ पुनः काः प्रतिमाः यासु स्थितो गृहस्थोऽपि विशुध्यति ! उच्यते-शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शन भय-लोभ-लज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा ।१।
द्वौ मासौ यावदखन्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया ।२। त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । ३ । चतुरो मासांश्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी ।४।। पञ्च मासांश्चतुष्पा गृहे तद्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठान
॥५३८॥