________________
॥५३७॥
तृतीय प्रकाशा
योग
यस्य तं क्रोड स्थितमृगार्भकम्, एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के ? मृगयूथपा मृगयूथाधिशास्त्रम् पतयः, किंविशिष्टाः ! जरन्तो वृद्धाः। जरन्तो हि यथाकथश्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात्
तेऽपि विश्वस्ताः सन्तो जातिस्वभावाद् वक्त्रे आजिघ्रन्ति ॥१४५॥ तथा-- | शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा।१४६।।
शत्रौ रिपौ, मित्रे सुहृदि, तृणे शष्पादौ स्त्रैणे स्त्रीसमूहे, स्वर्णे काश्चने, अश्मन्युपले, मणौ रत्ने, मृदि मृत्तिकायाम, मोक्षे कर्मवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमतिः कदा भविष्यामि । शत्रुमित्रादिषु निर्विशेषमतित्वमप्यन्यस्यापि भवेत, असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निविशेषत्वमर्थयते, यदाह.-"मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" इति ।
एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, द्वितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥१४६॥
इदानीमुपसंहरति| अधिरोढं गुणश्रेणि निःश्रेणी मुक्तिवेश्मनः। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ।१४७॥
अधिरोदुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्थानरूपाम्, किंविशिष्टाम् ! निःश्रेणीमिव निःश्रेणीम् , कस्य ?
ArianaमानKA
॥५३७॥