________________
योग
शास्त्रम्
॥५३६॥
वत्स्यति वर्तमाना ॥ १४२ ॥
त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥१४३॥ दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला रिट-भट-भण्ड-गणिकादयः, लोकोत्तरास्तु पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छान्दास्तैः संसर्ग संवासादिरूपं, त्यजन् परिहरन् । न च तन्मात्रेण भवतीत्याह-- गुरुपादरजः स्पृशन् । अनेन सत्संसर्गमाह । न चैतावताप्यलमित्याह – योगमभ्यस्यन् योगो रत्नत्त्रयं ध्यानं वा तमभ्यस्यन् पुनः पुनः परिशीलयन् कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भविच्छदे संसारोच्छेदाय ।। १४३ ।। तथा
महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ॥ १४४ ॥
महानिशायां निशीथे, कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगराद् बाह्यप्रदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषणं स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्युः करिष्यन्ति । इदं च प्रतिमाप्रतिपन्नश्रावकविषयम्, तस्यैव पुराद् बहिष्कृत कायोत्सर्गस्य शिलास्तम्भभ्रान्त्या वृषभैः स्कन्धकषण संभवः, प्रैप्सितयत्यवस्थापेक्षं वा यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सर्गसंभवात् ॥ १४४ ॥ तथा
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽप्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः॥ १४५॥ वनेऽरण्डे पद्मासनं वक्ष्यमाणं तेनासीनमुपविष्टम्, अहिंस्रत्वेन क्रोड उत्सङ्गे स्थिता मृगार्भका मृगडिम्भा
*CKERESTOCKOO
तृतीय प्रकाशः
॥५३६॥