________________
तृतीय प्रकाशा
योग शास्त्रम् ॥५३५।।
जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरकमूलत्वातः किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि, कथंभूतः ? जिनधर्मेणोक्तस्वरूपेणाधिवासितः ॥ १४१ ॥ तथा त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन माधुकरी वृत्तिं मुनिचर्या कदा श्रये॥१४२॥ । त्यक्ता गृहगृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद वासो यस्य स जीर्णवासः, मलेन क्लिन्नं कलेवर' यस्य स मलक्लिन्नकलेबरः, मधुकरस्येयं माधुकरी माधुकरीव माधुकरी वृत्तिर्भिक्षा तां भजन् सेवमानः, यदाहुः,१जहा द्रुमस्स पुप्फेसु भमरो आविभइ रसं । न य पुप्फ किलामेइ सो य पीणेइ अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुणो । विहगमा व पुप्फेसु दानभत्तेषणे रया ॥ २ ॥ वयं च वित्ति लब्भामो न य कोवुवहम्मइ । अहागडेसु रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ मुनीनां चर्या मूलगुणोत्तरगुणरूपा तां कदा कहिं श्रये श्रयिष्यामि, कदाकोर्नवा ॥ ५ । ३ ॥८॥ इति (१) यथा द्रुमस्य पुप्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्लमयति स च प्रीणात्यात्मानम् ॥ १॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभक्तपणे रताः ॥ २ ॥ वयं च वृत्तिं लप्स्यामो न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥ ३ ॥
॥५३५।।