________________
योगशाखम्
तृतीय प्रकाशा
॥५४१॥
परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा ॥१५३॥
व्याख्या-स श्रावकः, अथानन्तरम्, आवश्यका अवश्यं करणीया ये योगाः संयमव्यापारास्तेषां भने कर्तुमशक्तावित्येकं कारणम्, अथ द्वितीय-मृत्योरागमे मृत्युसमये संप्राप्ते, संलिख्यते तक्रियते शरीरं कषायांचापनयेदिति संलेखना, तत्र शरीरसंलेखना क्रमेण भोजनत्यागः, कपायसंलेखना तु क्रोधादिकषायपरिहारः। तत्र प्रथमायाः कारणमिदम्,
१देहम्मि असंलिहिए सहसा धाऊहि खिज्जमाणेहिं । जायइ अट्टज्झाणं सरीरिणो चरमकालम्मि ॥१॥ द्वितीयायाः पुनरिदम्,२न ते एयं पसंसामि किसं साहु सरीरयं । कीस ते अंगुली भग्गा भावं संलिह मा तुर ! ॥१॥ इत्यादिना प्रबन्धेनोक्तम् । संयमं च यथौचित्येन प्रतिपद्यते । तत्रेयं सामाचारी;-श्रावकः किल सकलस्य श्रावकधर्मस्योद्यापनार्थमिवान्ते संयम प्रतिपद्यते तस्य साधुधर्मशेषभूतैव संलेखना, यदाह;-३संलेहणा उ अंते न निओआ जेण पव्वअइ कोई। ततो यःसंयम प्रतिपद्यते स संयमानन्तरं काले संलेखनां कृत्वा मरणं प्रतिपद्यते।
(१) देहेऽसंलिखिते सहसा धातुभिः खिद्यमानैः । जायत आर्तध्यानं शरीरिणश्चरमकाले ॥१॥ (२) न ते एतत् प्रशंसामि कृशं साधो ! शरीरकम् । कस्मात् तेऽगुलिर्भग्ना भावं संलिख मा त्वरस्व ॥१॥ (३) संलेखना त्वन्ते न नियोगाद येन प्रव्रजति कोऽपि ।
॥५४१॥