________________
योग
शास्त्रम्
॥ ५३२॥
DOSTOOREETO HENOXE
॥३०॥ स मूर्म्याखुस्रजं बिभ्रत् कण्ठे च सरटखजम् । नकुलान् कर्णिकास्थानेऽङ्गदस्थाने च पन्नगान् ॥३१॥ क्रुद्धान्तकसमुत्क्षिप्ततर्जनाङ्गुलिदारुणम् । उदस्यन्नपकोशासिं कामदेवं जगाद सः ||३२|| अप्रार्थितप्रार्थक ! रे ! किमारब्धमिद त्वया । किं स्वर्गमपवर्ग वा वराक ! त्वमपीच्छसि ? ||३३|| मुञ्चारब्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः । शरभः शैरिभारावैः किं क्षुभ्यति कदाचन १ ||३५|| कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं द्वित्रिस्त्रिदशपांसनः || ३६ || तत्राप्यक्षुभ्यतः सोऽस्य क्षोभायैमं वपुर्व्यधात् । स्वशक्त्यन्तमनालोक्य विरमन्ति खला न हि ||३७|| सोऽधत्त विग्रहं तु सजलाम्भोदसोदरम् | सर्वतोऽप्येत्य मिध्यात्वं राशीभूतमिवैकतः ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाशभुजदण्डविडम्बकम् ॥ ३९ ॥ किञ्चिदाकुश्चितां शुण्डां कालपाशामिवोद्वहन् । कामदेवं जगादेवं देवः कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया सुखं तिष्ठ मदाज्ञया । पाखण्डगुरुणा केन त्वमस्येवं विमोहितः १ ॥ ४१ ॥ न चेद् मुञ्चस्य धर्म शुण्डादण्डेन तद् द्रुतम् । क्रक्ष्यामि त्वामितः स्थानाद् नेष्यामि च नभोऽङ्गणे ||४२|| व्योम्नः पतन्तं दन्ताभ्यां प्रेषयिष्यामि चान्तरा । अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ||४३|| पादैः कर्दममर्द च त्वां मर्दिष्यामि निर्दयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात् ॥ ४४ ॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरताऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलीनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम् । द्वित्रिश्चतुरभाषिष्ट तथैव
१ ' प्रत्येयिष्यामि इति प्रत्यन्तरम् ।
SETO CRESTO HORESTOCK
तृतीय प्रकाशः
।।५३२ ।।