________________
योगशास्त्रम्
D
तृतीय प्रकाशा
॥५३३॥
स दुराशयः ॥४६॥ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत् । व्योमन्युच्छालयामास प्रतीयेष च पूलवत् ॥४७॥ दलयामास दन्ताभ्यां पादन्यासममर्द च । धर्मकर्मविरुद्धानां किमकृत्यं दुरात्मनाम् ? ॥४८॥ अधिसेहे च तत् सर्व कामदेवो महामनाः । मनागपि च न स्थैर्य जहौ गिरिरिव स्थिरः॥४९॥ तस्मिन्नचलिते ध्यानादीदृशेनापि कर्मणा । सदर्पः सर्परूपं स विदधे विबुधाधमः ॥५०॥ देवः पूर्ववदेवोचे स तं भापयितुं ततः। कामदेवस्तु नाभैषीद ध्यानसंवर्मितः सुधीः॥५१॥ भूयो भूयस्तथोक्वा तं निर्भीक प्रेक्ष्य दुःसुरः। आतोद्यमिव वःण स्वभोगेनाभ्यवेष्टयत् ॥५२॥ निःशूकमेव दशनर्देदशूको ददंश तम् । स तु ध्यानसुधामग्नो न तद्वाधामजीगणत् ॥५३॥ दिव्यरूपं ततः कृत्वा द्युतिद्योतितदिङ्मुखम् । सुरः पौषधशालायां विवेशैवमुवाच च ॥५४॥ धन्योऽसि कामदेव ! त्वं देवराजेन संसदि । प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥५५॥ प्रभवः प्राभवेणापि वर्णयन्ति ववस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥५६।। त्वां यथाऽवर्णयच्छकस्तथैवासि न संशयः। क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥५७॥ प्रययावभिधायैवं स देवो देवसद्मनि। कामदेवोऽपि शुद्धात्मा प्रतिमां तामपारयत् ॥५८॥ उपसर्गसहिष्णुं तमश्लाघिष्ट स्वयं प्रभुः । सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥५९॥ कामदेवो द्वितीयस्मिन्नति पारितपोषधः। त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥६॥ जगद्गुरूरभाषिष्ट गौतमप्रभृतीनिति । गृहधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥६॥ सर्वसङ्गपरित्यागाद यतिधर्मपरायणैः। तद्विशेषेण सोढव्या उपसर्गा भवादृशैः ॥६२॥ कर्मनिमूलनोपायान् श्रावकप्रतिमास्ततः। एकादशापि शिश्राय कामदेवः क्रमेण ताः ।।६३।। सोऽथ संलेखनां कृत्वा प्रपेदेऽशनव्रतम् । परं समाधिमापनः
॥५३३॥