________________
योगशास्त्रम्
तृतीय प्रकाश
॥५३१॥
विना तैले सहखशतपाकिमे ॥१३॥ विना सुगन्धिगन्धाढयमुद्वर्तनकमत्यजत् । विनाष्टावौष्टिकानम्भस्कुम्भान् मज्जनकर्म च ॥ १४ ॥ ऋते च ौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीखनं च पद्म च विना कुसुममत्यजत् । कर्णिका नाममुद्रां च विहायाभरणान्यपि ॥१६ तुरुकागुरुधूपेभ्य ऋते धृपविधि जहौ । घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ काष्ठपेयां विना पेयामोदनं कलमं विना। माषमुद्गकलायेभ्य ऋते सूपं च सोऽमुचत् ॥१८॥ तत्याज च घृतं सर्वमृते शारदगोघतात् । शाकं स्वस्तिकमण्डूक्याः पल्यङ्काच्चापरं जहौ ॥ १९ ॥ अन्यत् स्नेहाम्लदाल्यम्लात् तीमनं वारि खाम्भसः । जहौ सुगन्धिताम्बूलाद् मुखवासमथापरम् ॥ २० ॥ ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥२१॥ कुटुम्बमारमारोप्य ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पौषधशालायामप्रमादी व्रतेषु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ निशीथे क्षोभहेतवे । पिशाचरूपमृद मिथ्यादृष्टिः कोऽप्याययौ सुरः ॥२३॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्वाः केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रवौ । कणौं सूर्पाकृती युग्मचुल्लीतुल्या च नासिका ॥२५॥ उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसनिभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥२७॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावमुल्यः शिलापुत्रकसन्निभाः ॥२८ ॥ पातालतुल्यमुदरं नाभिः कूपसहोदरा । शिश्न चाजगरप्राय वृषणौ कुतुपोपमौ ॥ २९ ॥ जो तालझुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानका
॥५३१ ।