________________
योगशास्त्रम्
॥ ५३०॥
संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ॥ १३९॥ संसर्गेऽपि संबन्धेऽपि, उपसर्गाणां सुरादिकृतानाम्, दृढव्रतपरायणाः प्रतिपन्नत्रतपालनपराः, कामदेवाद्याः कामदेवप्रभृतयः, धन्या धमंधनं लब्धारः, त इति भगवदुपासकत्वेन प्रसिद्धाः । धन्यत्वे विशेषहेतुमाह — श्लाघ्याः प्रशस्यास्तीर्थकृतां श्रीमन्महावीरस्य पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदाय गम्यम् । स चायम्, अनुगङ्गे पतद्वंशश्रेणीभिरिव चारुभिः । चत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥ १ ॥ भोगिभोगायतस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीद् महीपतिः || २ || अभूद् गृहपतिस्तस्यां कामदेवाfe: सुधीः । आश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥ ३ ॥ लक्ष्मीरिव स्थिरीभूता रूपलावण्यशालिनी । अभूद् भद्राकृतिर्भद्रा नाम तस्य सधमिणी || ४ || निधौ षट् स्वर्णकोटयः षड् वृद्धौ षड् व्यवहारगाः । व्रजाः पट् चास्य दशगोसहस्रमितयोऽभवन् ॥ ५ ॥ तदा च विहरन्तु तत्रोर्वीमुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् || ६ || कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ||७|| कामदेवस्ततो देवनरासुरगुरोः पुरः । प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ॥ ८ ॥ प्रत्याख्यात् स विना भद्रां स्त्रीजान पड़ीं विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीर्विना वसु || ९ || हलपञ्चशतीं मुक्त्वाऽत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि वादृणि पञ्च पञ्च शतान्यते ॥ १० ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय वहनान्येष प्रत्याख्याद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायीं स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याद्रमपास्य मधुयष्टिकाम् ||१२|| ऋते च क्षीरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च
तृतीय प्रकाशः
५३०॥