________________
योग
शास्त्रम्
।।५२९॥
यो यो राग-द्वेष - क्रोध- मान - माया - लोभ-मोह - मन्मथाऽसूया - मत्सरादिदोषो बाधकश्चित्तप्रशान्तिवाहिकायास्तस्य तस्य दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् ; तथाहि - रागस्य वैराग्यम्, द्वेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम्, मायाया आर्जवम्, लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौच भावना, असूयाया अनसूयत्वम्, मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानावाधा च प्रतिक्रिया मता । इदं चाशक्यमिति नाशङ्कनीयम्, दृश्यन्ते हि मुनयस्तत्तद्दोषपरिहारेण गुणमयमात्मानं विभ्रतः । अत एवाह - दोषमुक्तेषु यतिषु प्रमोदं वजन । सुकरं हि दोषमुक्तमुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ।। १३७ ॥ तथा
दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्ग तेष्वपवर्ग विमार्गयेत् ॥ १३८
दुःस्थां दुःखहेतुम्, भवस्थिर्ति संसारावस्थानम्, चिन्तयन् विमृशन, सर्वजीवेषु तिर्यग्र - नारक - नरा - ऽमरेषु; तथाहि - तिरथां वध-बन्ध - ताडन - पारवश्य-श्रुत्-पिपासा - ऽतिभारारोपणा -ऽङ्गच्छेदादिभिः, नारकाणां च स्वाभाविक - परस्परोदीरित-परमाधार्मिककृत क्षेत्रानुभावज वेदनामनुभवतां क्रकचदारण- कुम्भीपाक - कूटशाल्मलीसमाश्लेष - वैतरणीतरणादिभिः, नराणां च दारिद्र्यव्याधिपारवश्यवधबन्धादिभिः सुराणां चेर्ष्या-विषाद - विपक्षसंपद्दर्शनमरणदुःखानुचिन्तनादिभिर्दुःस्थैव भवस्थितिः, तां स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवगं मोक्षम् . किं विशिष्टम् ? निसर्गसुखसर्ग निसर्गेण सुखसंसर्गे यत्र तम्, विमार्गयेदाशंसेत् — कथं नु नाम सर्वे संसारिणः सकलदुःखविमोक्षेण मोक्षेण संयुज्येरन्निति ।। १३८ ॥
इदमपि निद्राच्छेदे चिन्तयेत् —
तृतीय
प्रकाशः
॥५२९ ॥