________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५२८॥
शस्त्रेण जिगीषत्ययम्, तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मृढधियः, यल्लौकिकाः पठन्तिअर्के चेद् मधु विन्देत किमर्थ पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ? ॥१॥१३५॥
तथा इदमपि निद्राच्छेदे चिन्तयेत्सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत्।१३६।
सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य न तु वास्तवं किश्चित् कारणमित्यर्थस्तेन, अनेन सकलजगत्संवेदनसिद्धेन, हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृतिक कीटपर्यवसानं तैस्तैः स्वीदर्शनालिङ्गनस्मरणादिभिः प्रकारैविंडम्बितं विगोपितम्। श्रूयते हि पुराणे-हरगौरीविवाहोत्सवे पुरोहितीभूतः पितामहो, गौरीप्रणयप्रार्थनासु हरः, गोपीचाटुकर्मणा श्रीपतिः, गौतमभार्यायां रममाणः सहसलोचनः, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अश्वायामप्यादित्यो विडम्बनां प्रापितः। तदनेनासारेणासारहेतूद्भवेन च यद् विश्वं विडम्ब्यते तदसाम्प्रतम् । तत् तस्मादिदानीमस्यैव जगद्विडम्बनकर्तुः सङ्कल्पलक्षणं मूलमुत्खनामि उन्मूलयामि । इति स्त्रीशरीरस्याशुचित्वमसारत्वं सङ्कल्पयोन्युपकरणत्वं च विचिन्तयेदिति प्रकृतयोजना ॥१३६ ॥ ___ तथा, इदमपि निद्राच्छेदे चिन्तयेत्यो यः स्याद्वाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् १३७
॥५२८॥