SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् तृतीय ॥५२७॥ प्रकाश है| यकृच्छकृन्मलश्लेष्ममजास्थिपरिपूरिताः । स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥१३३ यकृत् कालखण्डम् शकृद् विष्ठा, मला दन्ताधुपलेपाः श्लेष्मा कफः, मज्जा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः, एभिः परिपूरिताः खियः स्त्रीशरीराणि, चर्मप्रसेविका भवाः, अत एव बहिरेव रम्याः। भखा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम्, भनाश्च स्यूता भवन्ति, अत एव स्नायुस्यूताः स्नायुभिः स्नसादिभिः स्यूता इव स्यूताः ॥ १३३ ॥ तथाबहिरन्तविपर्यासः स्त्रीशरीरस्य चेद भवेत । तस्यैव कामकः कुर्याद गध्रगोमायगोपनम् ।१३४॥ ___ बहिश्चान्तश्च, तयाविपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत् अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेद् यदि भवेत्, तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृघ्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्र गोमायुग्रहण दिवानिशं रक्षणीयताप्रतिपादनार्थमः गृध्रा हि दिवा प्रभविष्णवः, गोमायवश्च रात्रौ । तत्स्त्रीशरीरस्य विपर्यासे नक्तंदिन कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात्, दूरे तत्परिभोगः ।। १३४ ।। तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति। तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः१।१३५॥ ___ स्न्येव शस्त्रं स्त्रीशस्त्रं तेन जगद्विजयार्थमुपात्तेन, अपीत्यनादरे, चेद् यदि, कामो मन्मथः, एतज्जगत् त्रैलोक्यात्मकम्, जिगीपति जेतुमिच्छति, तदा स मूढधीः कामः तुच्छं काकादीनां यत् पिच्छं तन्मयं शस्त्रं किं नादत्ते कुतो हेतोन गृहणाति ? । अयमर्थः-यद्यसारेण रसामुग्मांसमेदोऽस्थिमज्जशुक्रपूरितेन बहुप्रयासलभ्येन स्त्रीरूपेण ॥५२७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy