________________
योगशास्त्रम्
तृतीय प्रकाश
॥५२६॥
नार्थमगाद् गुरुम् ॥३०॥ न ददौ वाचनां तस्यायोग्योऽसीत्यादिशन गुरुः । दीक्षादिनात् प्रभृत्येषोऽप्यपराधान् व्यचिन्तयत् ॥३१॥ चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवद् गुरुः ॥३२॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः। न करिष्यामि भूयोऽदः क्षम्यतामिति चाब्रवीत् ॥३३॥ न करिष्यसि भूयस्त्वमकार्षीयदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ ३४ ॥ स्थूलभद्रस्ततः सर्वसंघनामानयद गुरम् । महतां कुपितानां हि महन्तोऽल प्रसादने ॥३५॥ सूरिः संघ बभाषेऽथ विचक्रेऽसौ यथाधुना । तथाऽन्ये विकरिष्यन्ते मन्दसत्त्वा अतः परम् ॥३६।। अवशिष्टानि पूर्वाणि सन्तु मत्पार्श्व एव तत् । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ ३७ ॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ ३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान स्थूलभद्रमवाचयत् ॥ ३९ ॥ सर्वपूर्वधरोऽथासीत् स्थूलभद्रो महामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥४०॥
स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य सर्वसंसारसौख्यविरतिं विमृशेद मनीषी ॥ २४१ ॥ १३२ ॥
॥ इति श्री स्थूलभद्रकथानकम् ॥ योषिरदङ्गसतत्त्वं कलापकेनाह(१) सतत्त्वं याथार्थ्यम् ।
|॥५२६u