________________
योग
शास्त्रम्
॥५२५॥
सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जयसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ १३॥ ज्ञात्वोपयोगादाचार्योऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यो न तु केसरी ॥ १४ ॥ ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ||१५|| श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ । क्षुधावान् सर्वदा कर्तु भक्तमपि क्षमः ||१६|| मयोक्तः पर्युषणायां प्रत्याख्याद्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः ||१७|| प्रतीक्षस्व क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि ? | अद्य यावत् त्वया चैत्यपरिपाटी विधीयते ॥१८॥ तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्धमिति चक्रे तथैव सः ॥ १९ ॥ प्रत्यासन्ना ऽधुना रात्रिः मुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यभक्तार्थमित्युक्तः सोऽकरोत् तथा ||२०|| ततो निशीथे संप्राप्ते स्मरन् देवगुरूनसौ । क्षुत्पीडया प्रसरन्त्या विपद्य त्रिदिवं ययौ | २१ | ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वढम् । पुरः श्रमण संघस्य प्रायश्चित्ताय ढौकिता | २२| संघोऽप्यूचे व्यधायीदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किञ्चिदस्ति ते |२३| ततोहमित्यवोचं च साक्षादाख्याति चेज्जिनः । ततो हृदयसंवित्तिर्जायते मम नान्यथा ॥ २४ ॥ अत्रार्थे सकलः संघः कायोत्सर्ग ददावथ । एत्य शासनदेव्यूचे व्रत कार्य करोमि किम् १ ||२५|| संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । सोचे निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ||२६|| संघे तत्प्रतिपेदाने मां साऽनै पखिनान्तिके । ततः सीमन्त्ररस्वामी वन्दितो भगवान् मया ||२७|| भरतादागताऽऽर्येयं निर्दोषत्यवदज्जिनः । कृपया मनिमित्तं च व्याचक्रे चूलिकाद्वयम् ||२८|| ततोऽहं छिन्नसंदेहा देव्यानीता यथाश्रयम् । श्रीसंवस्यापि तवती चूलिकाद्वितयं च तत् ॥ २९ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाच
तृतीय प्रकाशः
॥ ५२५ ।।