________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५२४॥
सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ ९६ ॥ तद्वचस्तौ मुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमायादिदेशेति मुनिद्वयम् ।।९७।। गत्वा वाच्यः स आचार्यों यः श्रीसंघस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः॥ ९८ ।। संघबाह्यः स कर्तव्य इति वक्ति यदा स तु तहिं तद्दण्डयोग्योऽसीत्याचार्यों वाच्य उच्चकैः ।। ९९ ॥ ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् संघः किन्तु करोत्वदः ॥२०० ॥ मयि प्रसादं कुर्वाणः श्रीसंघः प्रहिणोत्विह । शिप्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः॥१। तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः। अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥२॥ अन्यां विकालवेलायां तिस आवश्यक पुनः । सेत्स्यत्येवं संघकार्य मत्कार्यस्याविबाधया ॥३॥ ताभ्यामेत्य तथाख्याते श्रीसंघोऽपि प्रसादभाक । प्राहिणोत् स्थूलभद्रादिसाधुपश्चशतीं ततः॥४॥ तान् सूरिर्वाचयामास तेऽप्यल्पा वाचना इति । उद्भज्ये युनिज स्थानं स्थलभद्रस्त्ववास्थित ॥ ५॥ नोद्भज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः ॥६॥ मूरिरूचे मम ध्यान पूर्णप्रायमिदं ततः। तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥७॥ पूर्णे ध्याने ततः मूरिरिच्छया तमवाचयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः॥ ८ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रीभद्रबाहुरागत्य बाह्योद्यानमशिश्रियत् ॥९॥ विहारक्रमयोगेन वतिन्योऽत्रान्तरे तु ताः। भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः ॥१०॥ वन्दित्वा गुरुमूचुस्ताः स्थूलभद्रः क नु प्रभो ! । इहापवरकेऽस्तीति तासां सूरिः शशंस च ॥ ११ ॥ ततस्तमभिचेलुस्ताः समायान्तीविलोक्य सः । आश्चर्यदर्शनकृते सिहरूपं विनिममे ।।१२।। दृष्ट्वा सिंहं तु भीतास्ताः
॥५२४॥