________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५२३॥
क्षतवतः ॥ ७८ ॥ आहारः षडरसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ ७९ ॥ विलीयन्ते धातुमयाः पार्श्वे वहुनेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रो महामुनिः ॥८॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुरैव मुखे वर्णयितुं परम् ।। ८१ ॥ रथिकोऽप्यथ पप्रच्छ य एवं वर्ण्यते त्वया। को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः ? ॥ ८२॥ साऽप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ ८३ ॥ तच्छुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः॥४४॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः॥८५॥ प्रतिबुद्धं च तं बुध्ध्या साऽऽख्यद् निजमभिग्रहम् । तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ ८६॥ बोधितोऽहं त्वया भद्रे ! स्थुलभद्रगुणोक्तिभिः। यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ।। ८७ ॥ कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सद्गुरोः पार्श्व गत्वा दीक्षां स आददे ।। ८८ ॥ भगवान् स्थूलभद्रोऽपि तीव्र व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा
।। ८९ ॥ तीरं नीरनिधेर्गत्वा साधुसंघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ।।९०॥ अगुण्यमानं HAL तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ।। ९१ ॥ संघोऽथ पाटलीपुत्रे समवायं
विनिर्ममे । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ ९२॥ ततश्चैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किश्चिद विचिन्तयन् ॥९३॥ संघोऽस्मरद भद्रबाहोर्दष्टिवादभृतस्ततः। तदानयनहेतोश्च प्रजिघाय मुनिद्वयम् ॥९४ ॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली। समादिशति वः संघस्तत्रागमनहेतवे ॥ ९५॥
॥५२३॥