________________
02
।
योगशास्त्रम्
प्रकारा
भवान्युन्मूलयितुमात्मनः। यास्यामि गुरुपादान्ते धर्मलाभस्तवान ! ॥६२॥ कोशापि तमुवाचैवं मिथ्या मे दप्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥६३॥ आशात नेयं युष्माकं बोधहेतोर्मया कृता ।क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥६४॥ इच्छामीति भणित्वा च गुर्वन्तिकमुपेत्य सः। गृहीत्वालोचनां तीक्ष्णमाचचार पुनस्तपः ॥६५॥ राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् ॥६६।। स्थूलभद्रं विना नान्यः पुमान् कोऽपोत्यहनिशम् । सा तस्य रथिनोऽभ्यर्णे वर्णयामास वणिनी ॥६७॥ रथी गत्वा गृहोद्याने पर्यके च निषद्य सः। तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ ६८ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शराल्यभूत् ॥६९॥ वृन्तं छित्वा क्षुरप्रेण बाणश्रेणिमुखस्थिताम् । लुम्बीं स्वपाणिनाऽऽकृष्यासीनस्तस्यै स आर्पयत् ॥७०॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यत्ति सार्ष राशिं तस्योपरि ननर्त च ॥७१॥ सूची क्षिप्त्वा तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विद्धा राशिश्च न क्षतः ॥७२॥ ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम् ॥ ७३ ॥ सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमप्यधिकं चास्मात् किमभ्यासेन दुष्करम् ? ॥ ७४॥ किञ्चाम्रलुम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्त दुष्करम् ॥ ७५ ॥ द्वादशाब्दानि बुभुजे भोगान् यत्र समं मया । तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥७६॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः। योगिनां दृष्यते चेतः स्थूलभद्रमुनि विना ॥ ७७ ॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ? । चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽ
सापयत् ॥७०॥ इदा
नो सूच्या कि तस्योपरि ननर्त
॥५२२॥