________________
तृतीय
योगशास्त्रम्
प्रकाशा
सत्य याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥४५॥ तं भुक्तपडरसाहारं मध्याहनेऽय परीक्षितुम् । कोशापि तत्र लावण्यकोशभूता समाययौ ॥४६॥ चुक्षोभ स मुनिर्मक्षु पङ्कजाक्षीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृय विकाराय न किं भवेत् ? ॥४७॥ स्मराा याचमानं तं कोशाप्येवमवोचत । वयं हि भगवन् ! वेश्या वश्याः स्मो धनदानतः ॥४८॥ स मुनिर्व्याजहाराथ प्रसीद मृगलोचने ।। अस्मासु भवति द्रव्यं किं तेलं वालुकास्विव ? ॥४९॥ नेपालभूपोऽपूर्वस्मै साघवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे स निर्वेदयितुं मुनिम् ॥५०॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥५१॥ तत्र गत्वा महीपालाद् रत्नकम्बलमाप्य च । स मुनिवलितो वर्त्मन्यासंस्तत्र च दस्यवः ॥५२॥ आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः । किमायातीत्यपृच्छच्च दस्युराइ द्रुस्थितं नरम् ॥५३॥ आगच्छन् भिक्षरेकोऽस्ति न कश्चित् तादृशोऽपरः । इत्यशंसद् दुमारूढश्चौरसेनापतेः स तु ॥५४॥ साधुस्तत्राथ संप्राप्तस्तैविधृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मालम्लुचैः॥५५॥ एतल्लक्ष 'प्रयातीति व्याहरच्छकुनः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥५६।। वेश्याकृतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः। अस्तीत्युक्ते मुनिश्चोरराजेन मुमुचेऽथ सः॥५७॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा गृहस्रोतः पङ्के निःशङ्कमेव तम् ॥५८॥ अजल्पद् मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे । महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥५९॥ अथ कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वभ्रे पतन्तं स्वं न शोचसि ॥ ६० ॥ तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः ॥६१।। अघान्यतीचार
॥५२॥