________________
योगशास्त्रम्
ASTE
तृतीय प्रकाश
॥५२०॥
रन्तुकामां धिगीश! माम् । आत्मानमिति निन्दन्ती साऽपतत् तस्य पादयोः ॥२७॥ मुनेस्तस्येन्द्रियजयप्रकर्पण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहीच्चैवमभिग्रहम् ॥ २८॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥२९॥ गते तु वर्षासमये ते त्रयोऽपि हि साधवः । नियूंढाभिग्रहा एयुगुरुपादान्तिकं क्रमात् ॥३०॥ आयान् सिंहगुहासाधुरहो ! दुष्करकारक ! । तव स्वागतमित्यूचे किञ्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितौ तद्वदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥३२॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत । दृष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥३३॥ सासूयाः साधवस्तेऽथाचिन्तयनित्यहो! गुरोः। इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥३४॥ यद्यसौ षड्रसाहारः कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥३५।। एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः। कुर्वाणाः संयम मासाम्नष्टावगम यन् क्रमात् ॥३६॥। उत्तमर्ण इव प्राप्ते काले हृष्टः पुरोः गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥३७॥ कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥३८॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥३९॥ वत्स ! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः ॥४०॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः । तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ॥४१॥ गुरुरूचेऽमुना भावी भ्रंशः प्राक्तपसोऽपि ते । आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥४२॥ गुरोर्वचोऽवमन्याथ वीरमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥४३॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ । भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥४४॥ व
11५२०॥