________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥५१८॥
श्रीयकोऽपि तत् । मेने च पितृवैरस्य विहित प्रतियातनम् ॥९२॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः॥९३॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्च सगौरवमदृश्यत ।९४। अन्यदा नन्दराइ मन्त्रिगुणस्मरणविहलः। सदसि श्रीयकामात्य जगादेवं सगद्गदम् ।।९५।। भक्तिमान् शक्तिमान् नित्यं शकटालो महामतिः। अभवद् मे महामात्यः शक्रस्येव बृहस्पतिः॥९६॥ एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥९७॥ उवाच श्रीयकोऽप्येवं कि देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः ॥९८॥ सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ ९९ ।। श्रीयकस्तु द्वितीयेऽह्नि सर्वेषामीयुषां सदः । स्वघुसा शिक्षितेनाग्रथं पद्ममेकैकमापयत् ॥ १०० ॥ तत्काल मदनफलरसभावनयाऽश्चितम् । दुरात्मानो वररुचेरर्पयामास पङ्कजम् ॥१॥ कुतस्त्यमद्भुतामोदमिदमित्यभिवणिनः । घ्रातुं राजादयो निन्युर्नासाग्रे स्वं स्वमम्बुजम् ॥२॥ सोऽपि भट्टोऽनयद् घ्रातुं घ्राणाग्रे पङ्कज निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ ३॥ धिगमुं सीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सरित्याक्रुश्यमानो निर्ययौ सदसोऽय सः॥४॥ ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापाणाघघातकम् ।। ५॥ मूषया तापितमथ पपौ वररूचिस्त्रपु । प्राणैश्च मुमुचे सद्यस्तत्प्रदाहभयादिव ॥६॥
स्थूलभद्रोऽपि संभूतविजयाचार्यसन्निधौ। प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ।। ७॥ वर्षाकालेऽन्यदाऽऽयाते संभूतविजयं गुरुम् । प्रणम्य मूर्ना मुनय इत्यगृहणन्नभिग्रहान् ॥८॥ अहं सिंहगुहाद्वारे कृतोत्सर्ग उपो. षितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यश्रणोदिदम् ॥९॥ दृगविषाहिबिलद्वारे चतुर्मासीमुपोषितः। स्थास्या
॥५१८॥