________________
योगशाखम्
तृतीय प्रकाशा
॥५१॥
# धर्मलाभः स्तादित्यवोचत ।। ७५ ॥ ततः स राजसदनाद् गुहाया इव केसरी । निःससार महासारः संसारकरिरो
षणः ॥ ७६॥ किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरक्षत ॥ ७७ ॥ प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधृनयच्छिरः ॥७८॥ भगवान् वीतरागोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमभिनन्दयन् ॥ ७९ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतिविजयान्तिके। दीक्षा सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ ८॥ __गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥८१॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥ ८२ ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातुस्तत्प्रियापि कुलीनैबहु मन्यते ।। ८३ ॥ स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य साऽरुदत । इष्टे दृष्टे हि दुःखार्ता न दुःखं धर्तुमीशते ॥ ८४ ॥ ततस्तां श्रीयकोऽवोचदार्ये! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयञ्जनकं हि नः ॥ ८५ ॥ अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् ॥ ८६ ॥ त्वज्जाम्यामुपकोशायां यावद् रक्तोऽस्त्यसो खलः। तावत् प्रतिक्रियां काश्चिद विचिन्तय मनस्विनि ! ॥८७॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ८८॥ प्रेयोवियोजनाद् वैराद् दाक्षिण्याद् देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् ॥८९॥ कोशायाश्च निदेशेनोपकोशा तं तथा व्यधात् । यथा पपौ मुरामेष स्त्रीवशैः क्रियते न किम् ? ॥९॥ सुरापानं वररुचिः स्वैरं भट्टोऽद्य कारितः। उपकोशेति कोशाय शशंसाथ निशात्यये ॥९१॥ अथ कोशामुखात सर्व शुश्राव