________________
योग
शास्त्रम् ॥५१६॥
वैरिणामेव केवलम् ||५८|| राजा यम इवोद्दण्डः सकुटुम्बं न हन्ति माम् । यावत् तावन्ममैकस्य क्षयाद् रक्ष कुटुम्बकम् ||५९|| मुखे विषं तालपुटं न्यस्य नंस्यामि भूपतिम् । शिरः परासोर्मे छिन्द्याः पिठहत्या न ते ततः ॥६०॥ पित्रैवं बोधितस्तत् स प्रतिपेदे चकार च । शुभोदय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ६१॥ भवता किमिदं वत्स ? विदधे कर्म दुष्करम् । ससंभ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ||६२|| यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् || ६३|| भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा । स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा ||६४ ||
कृतौर्ध्वदेहिकं नन्दस्ततः श्रीयकमत्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति || ६५ || अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलभद्राभिधानोऽस्ति पितृतुल्यो ममाग्रजः || ६६ || पितृप्रसादाद् निर्बाधं कोशायास्तु निकेतने । भोगानुपभुञ्जानस्य तस्यान्दा द्वादशागमन् || ६७ || आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ ६८|| अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममशैति चेतसा ॥ ९९ ॥ शयनं भोजनं स्नानं यच्चान्यत् सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥७०॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यये च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्भेऽम्भसामिव ॥ ७१ ॥ त्यक्त्वा सर्वमपि स्वार्थ राज्ञोऽर्थं कुर्वतामपि । उपद्रवन्ति पिशुना उद्बद्धानामिव द्विकाः ॥ ७२ ॥ यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता ? विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टि सः। रत्नकम्बलदशाभी रजोहरणमप्यथ ||७४ || ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं
तृतीय प्रकाशः
॥५१६॥