________________
पोगशास्त्रम्
तृतीय प्रकाशा
॥५१५॥
विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्ग्रहणातीत्यूचे सचिवो नृपम् ॥४२॥ साधु ज्ञातमिदं छद्मेत्यालपन् मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागाद् महीपतिः ॥४३॥
अमर्षणो वररुचिः प्रतिकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥४४॥ तस्याथ कथयामास काचित् सचिवचेटचदः । भूपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि ॥४५॥ सज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥४६॥ समासाद्य च्छलज्ञस्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥४७॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ॥४८॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषीदिति चाचिन्तयद नृपः॥४९।। बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी च या भाषा सा भवत्यन्यथा न हि ॥५०॥ तत्प्रत्ययार्थ राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत्॥५१॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात् तस्थौ पराङ्मुखः ॥५२॥तद्भावज्ञो ऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ॥५३।। असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ॥५४॥ नमयामि यदा राज्ञे शिरश्छिन्द्यास्तदासिना । अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ॥५५॥ जरसापि यियासौ मय्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः ॥५६॥ श्रीयकोऽपि रुदन्नेवमवदद् गद्गदस्वरम् । तात! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ॥५७॥ अमात्योऽप्यनवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसे
SeemaSSED