________________
योगशास्त्रम्
॥५१॥
क्रमम् ||२४|| राज्ञः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ||२५|| अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमनूचिरे ॥२६॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७॥
ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥ २८ ॥ प्रातर्गङ्गाम स्तुत्वा यन्त्रमाक्रमर्दङ्गिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ॥ २९ ॥ स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसञ्च मन्त्रिणे ||३०|| इदं यद्यस्ति सत्यं तत् प्रातर्वीक्षामहे स्वयम् इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनि लीनोऽस्थात् पक्षीवानुपलक्षितः ॥ ३२ ॥ तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ गृहे ||३३|| तज्जीवितमिवादाय दीनारग्रन्थिमेष तु । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ अथ गुप्तात्तदीनारग्रन्थिर्मन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिस्तदा ॥ ३५ ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्र यदा वररुचिः पदा । दीनारग्रन्थिरुत्पत्य नापतत् पाणिकोटरे ||३७|| द्रव्यं सोऽन्वेषयामास पाणिना तज्जले ततः । तस्थावपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासीकृतमपि द्रव्यमन्वेषयसि यद् मुहुः ? ||३९|| उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दीनारग्रन्थि वररुचेः करे ||४० ॥ दीनारग्रन्थिना तेनोत्सर्पिहृद्ग्रंन्थिनेव सः । दशामासादयामास मरणादपि दुस्सहाम् ॥४१॥
CHORORO
तृतीय
प्रकाशः
॥५१४॥