________________
योग
शास्त्रम्
॥५१३॥
श्रीयस्त्वङ्गरक्षोऽभूद् भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः 11 2 11 तत्र चासीद् वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ९ ॥ स्वयंकृतैर्नवनवैरष्टोऽत्तरशतेन सः । वृत्तैः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १० ॥ मिथ्यादृगिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ॥ १२ ॥ संतुष्टया तयाऽन्येद्युः कार्यं पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्ताद् मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधेन तद्विज्ञप्तोऽवदत् पतिः । मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ? ।। १४ ।। तयोक्तः साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान् खलु ||१५|| राज्ञः पुरस्तात् पठतः काव्यं वररुचेस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्त्रिराट् ॥ १६ ॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया || १७ || दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद् दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥ १८ ॥ अथोचे नृपतिर्मन्त्रिन् दद्मोऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा ततः १ ॥ १९ ॥ मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रशशंस तदा त्वहम् ॥ २० ॥ पुरो नः परकाव्यानि स्वीकृत्य पठत्ययम् । किमेतत् सत्याभवेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ति वालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥ २२ ॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्रयोsस्य मन्त्रिणः ||२३|| जग्राह ज्यायसी तासां सकृदुक्तं तथेतराः द्वित्र्यादिवारक्रमतो गृहणन्ति स्म यथा
POORXXX
तृतीय
प्रकाशः
॥५१३॥