________________
योग
शास्त्रम्
।।५१२।
वीयरायाणं सव्वण्णूणं तिलोकपूइआणं जहद्विअवत्थुवाईणं" इत्यादि गुरुस्मृतिश्च - “धन्यास्ते ग्राम-नगर- जनपदादयो येषु मदीया धर्माचार्या विहरन्ति" । निद्रामल्पामिति । निद्रामिति विशेष्यम्, अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, “सविशेषणे हि विधि - निषेधौ विशेषणमुपसंक्रामतः" इति न्यायात् । निद्रामिति च विशेव्यमिति न तत्र विधिः, दर्शनावरणीयकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात्, 'अप्राप्ते हि शास्त्रमर्थवत्' इत्युक्तप्रायम् । अब्रह्म मैथुनं तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, गृहस्थत्वादस्य ॥ १३१ ॥ पुनश्च - निद्राच्छेदे योषिदङ्गतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्ति परामृशन् ॥ १३२ ॥
परिणतायां रात्रौ निद्रायाश्छेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् किं कुर्वन् ? स्थूलभद्रादीनां साधूनां तनिवृत्ति योषिदङ्गनिवृत्ति परामृशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रदायगम्यम् । स चायम्;
अस्ति सौधप्रभाजालधूपधूमैर्निरन्तरैः । जितगङ्गार्कजासङ्गं पाटलीपुत्रपत्तनम् ॥ १ ॥ तत्र त्रिखण्ड पृथिवी - पतिः पतिरिव श्रियः । समुत्खातद्विषत्कन्दो नन्दो नामाभवद् नृपः || २ || विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्यपुङ्गवः || ३ || तस्याभूज्ज्येष्ठतनयो विनयादिगुणास्पदम् अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः || ४ || भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोऽजनि नन्दनः । नन्दराइहृदयामन्दानन्दगोशीर्षचन्दनः || ५ || बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चेताश्चेतोभूजीवनौषधिः ||६|| भुब्जानो विविधान् भोगान् स्थूलभद्रो दिवानिशम् । उवासावसथे तस्या द्वादशाब्दानि तन्मनाः ॥ ७ ॥
तृतीय
प्रकाशः
॥५१२॥