________________
E
योगशास्त्रम्
तृतीय प्रकाशा
श्यककर्मा स्वाध्यायम् अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात्, अथवा, स्वाध्याय पञ्चविधं वाचना-प्रश्न-परिवर्तना-ऽनुप्रेक्षा-धर्मकथारूपं कुर्यात् । यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्टिको वा बहपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति । उत्तममित्युत्तमनिर्जराहेतुम्, यदाह
रबारसविहम्मि वि तवे सभितरवाहिरे कुसलदिहे । नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥१॥ तथा
सज्झाएण पसत्थं झाणं जाणइ अ सव्वपरमत्यं । सज्झाए बटुंतो खणे खणे जाइ वेरग्गं ॥१॥ इत्यादि ॥ १३०॥ न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥ १३१॥
न्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोऽर्धरात्रं वा शरीरसात्म्येन, तत इति स्वाध्यायकरणानन्तरं, निद्रामल्पामुपासीतेति क्रिया । कथम्भूतः सन् ? देवगुरुस्मृतिपवित्रित:-देवा अर्हट्टारकाः, गुरवो धर्माचार्याः, तेषां स्मृतिर्मनस्यारोपणं तया पवित्रितो निर्मलीभूतात्मा। उपलक्षणं चैतच्चतुःशरणगमनदुष्कृतगर्दासुकृतानुमोदना-पश्चनमस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति । तत्र देवस्मृतिः-"३नमो (१) द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदिष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥१॥ (२) स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम् । स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ॥१॥ (३) नमो वीतरागेभ्यः सर्वज्ञेभ्यस्त्रैलोक्यपूजितेभ्यो यथास्थितवस्तुवादिभ्यः ।