________________
योगशास्त्रमू
तृतीय प्रकाशा
॥५०९॥
ननु निर्विकृतिक एवाकाराभिधानाद् विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते ? । उच्यतेनिर्विकृतिकग्रहणे विकृतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति, यथा-एकासनस्य पौरुष्याः पूर्वाधस्यैव च सूत्रेऽभिधानेऽपि दूधासनकस्य साधपौरुष्या अपार्धस्य च प्रत्याख्यानमदुष्टम् , अप्रमादवृद्धः संभवात् । आकारा अप्येकासनादिसंबन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात् चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् । ननु द्वयासनादीनि अभिग्रहप्रत्याख्यानानि ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । न, एकासनादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते,-एवं हि प्रत्याख्याने संख्या विशीर्यंत । तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत् पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति । प्रत्याख्यानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति,
यदाहु:-- फासिअं पालियं चेव सोहिअं तीरिअं तहा । किट्टियमाराहियं चेव एरिसयम्मि पयइअव्व ॥१॥
तत्र स्पृष्टं प्रत्याख्यानकाले विधिना प्राप्तम् ॥१॥ पालितं पुनःपुनरुपयोगप्रतिजागरणेन रक्षितम् ।२। शोभितं गर्वादिप्रदत्तशेषभोजनासेवनेन ।३। तीरितं पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन ।४। कीर्तितं भोजनवेलायाममुकं मया प्रत्याख्यातमधुना पूर्ण भोक्ष्य इत्युच्चारणेन ।५। आराधितमेभिः प्रकारैः संपूर्णैर्निष्ठां नीतमिति।।६।।
प्रत्याख्यानस्य चानन्तर्येण पारंपर्येण च फलमिदम्:(१) स्पृष्टं पालितं चापि शोभित तीरितं तथा । कीर्तितमाराधितं चैवेदृशे प्रयतितव्यम् ॥१॥
| ॥५०॥