________________
योगशास्त्रम्
तृतीय प्रकाश
॥५०८॥
पूर्ववत् । नवरम् गिहत्थसंसट्टेणं इति गृहस्थेन स्वप्रयोजनाय दुग्धसंसृष्ट ओदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यगुलानि यावदुपरि वर्तते तदा तद् दुग्धमविकृतिः, पञ्चमाशुलारभ्भे विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थासंसृष्टत्वमागमादवसेयम् । उक्खित्तविवेगेणं इत्ति, उत्क्षिप्तविवेक आचामाम्लवदुद्धतुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु नास्ति । पडुच्चमक्खिएणं इति,, प्रतीत्य सर्वथा रूक्षमण्डकादिकमपेक्ष्य म्रक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधिः-यद्यगुल्या तैलादि गृहीत्वा मण्डकादि म्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पते । व्युत्सृजति विकृति त्यजतीत्यर्थः । इह च यासु विकृतिक्षिप्तविवेकः संभवति तामु नवाकाराः, अन्यासु तु द्रवरूपास्वष्टौ । एतदर्थसंवादिन्यो गाथा:दो चेव नमुक्कारे आगारा छच्च पोरिसीए उ। सत्तेव य पुरिमड्ढे एक्कासणगम्मि अठेव ।१॥ सत्तेगहाणस्स उ अठेव य अबिलम्मि आगारा। पंचेव अब्भत्तढे छप्पाणे चरिम चत्तारि ॥२॥ पंच चउरो अभिग्गहे निविए अट्ट नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥३॥ (१) द्वावेव नमस्कारे आकारौ षट् च पौरुष्यां तु । सप्तैव च पूर्वार्धे एकाशनेऽष्ट्रव ॥१॥
सप्तैकस्थानस्य त्वष्टैव चाचामाम्ले आकाराः। पञ्चैवाभक्तार्थ षटू पानके चरमे चत्वारः॥२॥ पञ्च चतुरोऽभिग्रहे निर्विकृतिकेऽष्ट नव चाकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः॥३॥
॥५०८॥