________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५०७॥
विगईओ पच्चक्खाइ अन्नत्थणाभोगेण सहसागारेण लेवाले वेणं गिहत्थसंसठेणं उक्खित्तविवेगेण पडुच्चमक्खिएणं पारिद्वावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ ।
मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहु:१छीरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्ज । महु मंस चेव तहा ओगाहिमग च विगईओ ॥१॥
तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् । तैलानि चत्वारि, तिलातसीलट्टासर्षपसंबन्धभेदात् । शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुड इक्षुरसक्वाथः । स द्विधा, पिण्डो द्रवश्च । मद्यं द्वेधा काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकम् कौत्तिक भ्रामरं च । मांस त्रिविधम्. जल-स्थल-खेचरजन्तूद्भवत्वात्। अथवा मांस त्रिविधम्, चर्म-रुधिर-मांसभेदात् । अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिम पक्वान्नम् “भावादिमः" (सिद्धहेम-६-४-२१) इतीमः, यत् तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीय तृतीयं च खाद्यकादि विकृतिः, ततः परं पक्कान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीय पक्कानं निविकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवति । इत्येषा वृद्धसामाचारी। एतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतखो विकृतयोऽभक्ष्याः। शेषास्तु षड भक्ष्याः। तत्र भक्ष्यासु विकतिवेकादिविकृतिप्रत्याख्यानं षडविकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् । आकाराः
(१) क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यम् । मधु मांस चैव तथाऽवगाहिमकं च विकृतयः ॥११॥
119
VIL