________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५०६॥
इह च भवचरम यावजीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति, यत्सूत्रम्
दिवसचरिमं भवचरिमं वा पच्चक्खाइ चउब्बिहं पि आहारं असण पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । __ननु दिवसचरिमप्रत्याख्यानं निष्फलम्, एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् । नैवम्, एकाशनादिकं ह्यष्टाद्याकारमेतच्च चतुराकारम्, अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योदगमान्तम्, दिवसस्याहोरात्रपक्यतयापि दर्शनात । तत्र येषां रात्रिभोजननियमोऽस्ति, तेषामपीदं सार्थकम्, अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु द्वयाकारमपि भवति । यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम्, तदाऽनाभोगसहसाकाराकारौ भवतः, अगुल्यादेरनाभोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ।। __ अथाभिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । यदा त्वप्रावरणाभिग्रहं गृहणाति तदा चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ॥
अथ विकृतिप्रत्याख्यानम् । तत्र नव, अष्टौ वाऽऽकाराः, यत् सूत्रम्--
५०६॥