SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीय प्रकाशः ॥५०५॥ सूरे उग्गए अब्भत्तटुं पच्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । सूर उद्गते सूर्योद्मादारभ्य, अनेन च भोजनान्तरं प्रत्याख्यानस्य निषेध इत्याह भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः। आकाराः पूर्ववत् । नवरं पारिष्ठापनिकाकारे विशेषः । यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते, पानके तूद्धरिते कल्पते । वोसिरइ इति भक्तार्थमशनादि च व्युत्सृजति ॥ ____ अथ पानकम् । तत्र पौरुषीपूर्वार्धकाशनकस्थानाचामाम्लाभक्तार्थप्रत्याख्याने पूत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति, यत् सूत्रम्पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरह। इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कृतलेपाद् वा पिच्छलत्वेन भाजनादिनामुपलेपकारकात् खजूरादिपानकादन्यत्र तद् वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इति योगः । वाशब्दोऽलेपकृतपानकापेक्षयाऽवजनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेन भङ्ग इति भावः। एवमलेपकृताद् वाऽपिच्छलात, अच्छाद् वा निर्मलादुष्णोदकादेः, बहुलाद् वा गडुलात् तिलतन्दुलधाव नादेः, ससिक्थाद् वा भक्तपुलाकोपेतादवखावणादेः, असिस्थाद् वा सिक्थवजितात् पानकाहारात् ॥ अथ चरमम् । चरमोऽन्तिमो भागः। स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् । ॥५॥५॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy