________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५०४॥
अथाचामाम्लम् । तत्राष्टावाकाराः । अत्र सूत्रम्
आयबिलं पच्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसटेणं पारिद्वावणि आगारेण महत्तरागारेणं सव्वसमाहिबत्तिआगारेणं वोसिरइ ।
आचामोऽवसावणम्, अम्ल चतुर्थों रसः, एते च प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माष-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत् प्रत्याख्याति-आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् । लेवालेवेण' लेपो भोजनभाजनस्य विकृत्य। तीमनादिना वाऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेप तस्मादन्यत्र-भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः। उक्खित्तविवेगेणं शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योक्षिप्तस्योध्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र-भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शनापि न भङ्ग इति भावः । यत्तत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः । गिहत्थससटेणं गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्त गृहस्थसंसृष्टं ततोऽन्यत्र । विकृत्यादिसंमृष्टभाजनेन हि दीयमानभक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते । वोसिरइ इति-अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति ॥
अथाभक्तार्थप्रत्याख्यानम् । तत्र पञ्चाकाराः, यत् सूत्रम्
11५०४॥