________________
योगशास्त्रम्
तृतीय प्रकाश
॥५०३॥
१छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछियपिंडगहणे अ॥१॥ ततश्च भुञ्जानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिकः । आउंटणपसारणेणं-आउंटणं आकुञ्चनं जवादेः संकोचनं प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम्, आकुश्चने प्रसारणे चासहिष्णुतया क्रियमाणे किश्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानम् । गुरुअब्भुटाणेणं-गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघुर्णकस्य वाऽभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः पारिद्वावणिआगारेणं परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारः, ततोन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात्, आश्रीयमाणे चागमिकन्यायेन गुणसंभवाच्च गुर्वाज्ञया पुनर्भुञानस्य न भङ्गः । वोसिरइ इति, अनेकासनमशनाद्याहारं च परिहरति ॥ ___ अथैकस्थानकम् । तत्र सप्ताकाराः । अत्र सूत्रम्-एकहाणं पच्चक्खाइ इत्याद्येकाशनवत् । आकुश्चनप्रसारणाकारवर्जमेकमद्वितीय स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितम, तस्मिंस्तथास्थित एव भोक्तव्यम् । मुखस्य पाणेश्चाशक्यपरिहारत्वाच्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं चैकाशनतो भेदज्ञापनार्थम् अन्यथैकाशनमेव स्यात् ॥
(१) षट्कायदयावानपि संयतो दुर्लभं करोति बोधिम् । आहारे नीहारे जुगुप्सितपिण्डग्रहणे च ॥१॥
॥५०३॥