________________
योगशास्त्रम्
तृतीय प्रकाशा
॥५०२॥
सूरे उग्गए पुरिमइदं पच्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छण्णेणं कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेण सन्यसमाहिवत्तियागारेणं वोसिरइ ॥
पूर्व च तदधं च पूर्वाध दिनस्याद्यं प्रहरद्वयं पूर्वार्ध प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । षडाकाराः पूर्ववत् । 'महत्तरागारेणं' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया वृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकारः प्रत्याख्यानापवादो महत्तराकारस्तस्मात् 'अन्यत्र' इति योगः । यच्चानव महत्तराकारस्याभिधानं न नमस्कारसहितादौ, तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते ।
अथैकाशनप्रत्याख्यानम् । तत्रष्टावाकाराः, यत् सूत्रम्
एक्कासणगं पच्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अणत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुअब्भुटाणेणं पारिहावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ॥
एकं सकृदशनं भोजनम्, एकं वासनं पुताचलनतो यत्र तदेकाशनमेकासनं च, प्राकृते द्वयोरपि एगासणं' इति रूपम्, तत् प्रत्याख्याति-एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राधावत्यौ च द्वावाकारौ पूर्ववत । सागारिआगारेणं सह आगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्ष हि साधूनां भोक्तुं न कल्पते. प्रवचनोपघातसंभवात्, अत एवोक्तम्,
॥५०२।।