________________
तृतीय प्रकाशा
योगशास्त्रम् ॥५०१॥
करोतीत्यर्थः। कथम् ? चतुर्विधमशन-पान-खाद्य-स्वाद्यलक्षणं 'व्युत्सृजति' इत्युत्तरेण योगः । अत्र षडाकाराः प्रथमौ द्वौ पूर्ववत् । अन्यत्र प्रच्छन्नकालात् , दिगमोहात् , साधुवचनात् , सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य, यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषी पूर्णां ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्षभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् , न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः मोहविगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यम्, निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं 'उद्घाटा पौरुषी' इत्यादिकं विभ्रमकारणम् , तत् श्रुत्वा भुञानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया संजातयोरात-रौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारण स एवाकारः प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकार:-समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः । वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽ पूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्वातुरस्य समाधौ मरणे वोत्पन्ने ज्ञाते सति तथैव भोजनस्य त्यागः ॥
सार्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ॥ अथ पूर्वार्धप्रत्याख्यानम्
॥५०
॥