________________
योगशास्त्रम्
तृतीय प्रकाशः
४९८॥
उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कृतप्रत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनुच्चरन् स्वयं जानन् ज्ञस्यैव गुरोः पार्थे प्रत्याख्यानं करोति । ज्ञत्वे चतुर्भङ्गी द्वयोर्जत्वे प्रथमो भङ्गः शुद्धः। १ । गुरोर्जत्वे शिष्यस्याज्ञत्वे द्वितीयः । तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः ।। गुरोरज्ञत्वे शिष्यस्य ज्ञत्वे तृतीयः। अयमपि तथाविधगुरोरप्राप्तौ गुरुबहुमानाद् गुरोः पितृ-पितृव्य-मातुल-ज्येष्ठभ्रात्रादिकं साक्षिणं कुर्वतस्तृतीयः शुद्धाः, अन्यथा त्वशुद्धः । ३ । द्वयोरज्ञत्वे चतुर्थः, असावशुद्ध एव । ४ । __उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि द्विविधम्-संकेतप्रत्याख्यानमद्धाप्रत्याख्यानं च । तत्र संकेतप्रत्याख्यानं श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठनु 'भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम् ' इत्यङ्गुष्ठादिकं संकेतं करोति–'यावदङ्गुष्ठं मुष्टिं ग्रन्थि वा न मुञ्चामि, गृह वा न प्रविशामि, स्वेदविन्दवो वा यावद् न शुष्यन्ति, एवतावन्तो वोच्छ्वासा यावद् न भवन्ति, जलार्द्रमश्चिकायां यावदेते विन्दवो न शुष्यन्ति दीपो वा यावद् न निर्वाति तावद् न भुजे' इति, यदाहु:
अंगुटमुटिंगठीघरसेऊसासथिवुगजोइक्खे । एअं संकेय भणियं धीरेहिं अणंतनाणीहिं ॥१॥ अद्धा कालस्तद्विषयं प्रत्याख्यानमद्धाप्रत्याख्यानम् । तच्च नमस्कारसहितं, पौरुषी. दिनपूर्वाधः, एकाशनम्, एकस्थानकम्, आचामाम्लम्, उपवासः, चरमम्, अभिग्रहः, विकृतिनिषेधश्चेति दशविधम्, यदाहुः(१) अगुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान् । एतत् सङ्केतं भणितं धीरैरनन्तज्ञानिभिः॥१॥
॥४९८॥