________________
योग
शास्त्रम्
॥४९९ ॥
BEO
१ नवकार पोरिसीए पुरिमइदेक्कासणेगठाणे य। आयंबिल भत्तट्ठे चरमे अ अभिग्ग विगई ॥ १ ॥ नन्वेकाशनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानम् न हि तत्र कालनियमोऽस्ति ? सत्यम् अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्युद्धाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम्, अन्यथा तु भङ्गः स्यात् स च दोषाय; यदाहु:
श्वयभंगे गुरूदोसो थेवस्स वि पालणा गुणकरी ओ । गुरु लाघवं च णेयं धम्मम्मि अओ अ आगारा ||१|| ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदर्श्यन्ते । तत्र नमस्कारसहिते मुहूर्तमात्रकाले नमस्कारोच्चारणवसाने प्रत्याख्याने द्वावाकारौ भवतः । आक्रियते विधीयते प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापवादः। ननु कालस्यानुक्तत्वात् संकेतप्रत्याख्यानमेवेदम् । नैवम्, सहितशब्देन मुहूर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते, तत् कथं तस्य विशेष्यत्वम् ? उच्यते - अद्धाप्रत्याख्यानमध्येऽस्य पाठात्, पौरुषीप्रत्याख्यानस्य वक्ष्यमाणत्वादवश्यं तदवय् मुहूर्त एवावशिष्यते । अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते ? | उच्यते-अल्पाकारत्वादस्य । पौरुष्यां हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत् - मुहूर्त्तमानकाल नमस्कारसहितं प्रत्याख्यानमिति । (१) नमस्कारः पौरुषी पूर्वार्ध एकाशनमेकस्थानं च । आचामाम्लमभक्तार्थश्वरमोऽभिग्रहो विकृतिः ॥ १ ॥ (२) व्रतभङ्गे गुरुदोषः स्तोकस्यापि पालना गुणकरी तु । गुरु लाघवं च ज्ञेयं धर्मेऽतश्चाकाराः ॥१ ॥
तृतीय
प्रकाशः
॥४९९॥