________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४९७॥
रघोडग लया य खंभे कुडे माले य सवरि बहु णियले। लंबोत्तर थण उद्धी संजइ खलिणे य वायस कविढे ॥१॥
सीसोकपिअ मूइ अंगुली भमुहा य वारुणी पेहा । इतिएके त्वन्यानपि कायोत्सर्गदोषानाहुः, यथानिष्ठीवनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः। सूत्रोदितविधेय॑नं वयोऽपेक्षाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं पापकार्योद्यमः परः ॥ २ ॥ कृत्याकृत्यविमूढत्वं पट्टिकाद्यपरि स्थितिः । इति । कायोत्सर्गस्यापि फलं निजरैव; यदाहुः२काउस्सग्गे जह संठिअस्स भज्जति अंगुवंगाई । इय भिदंति सुविहिया अविहं कम्मसंघायं ॥ १॥ कायोत्सर्गसूत्रार्थः प्राग व्याख्यात एव ॥
अथ प्रत्याख्यानम्-प्रति प्रवृत्तिप्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च द्वेधामूलगुणरुपमुत्तरगुणरूपं च । मूलगुणा यतीनां महाव्रतानि, श्रावकाणामणुव्रतानि, उत्तरगुणास्तु यतीनां पिण्डविशुद्धयादयः, श्रावकाणां तु गुणवतशिक्षाव्रतानि । मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, (१) घोटको लता च स्तम्भः कुडयं मालं च शबरी वधूनिगडः। लम्बोत्तरं स्तन उद्धिर्सयती खलीनं च वायसः कपित्थः
॥१॥ शीर्षोत्कम्पितं मूकोऽगुलिभ्रंश्च वारुणी प्रेक्षा । (२) कायोत्सर्गे यथा संस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥१॥
४९७॥