________________
थितयोरपि चतुर्भङ्गी वाच्याश्चितैक पादस्य घोटक स्तम्भदोषः ॥३॥ कुड़
योगशानम्
सृतीय प्रकाशा
॥४९६॥
इति चतुर्थः। एवं निषण्ण-शयितयोरपि चतुर्भङ्गी वाच्या ।
दोषरहितश्च कायोत्सर्गः कार्यः। दोषाश्चैकविंशतिः-आकुश्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ॥१॥ खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः ॥२॥ स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः ॥३॥ कुडयमवष्टभ्य स्थानं कुडयदोषः ॥४॥ माले शिरोऽवष्टभ्य स्थानं मालदोषः॥५॥ हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं शवरीदोषः ॥६॥ शिरोऽवनम्य कुलवध्वा इव स्थानं वधूदोषः ॥७॥ निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः ।।८।। नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः ॥९॥ दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः; 'धात्रीवद् बालार्थ स्तनावुनमय्य स्थानं वा' इत्येके ।१०। पार्णी मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मीलयित्वा पार्णी विस्तार्य स्थानं शकटोर्टिकादोषः॥११॥ व्रतिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयतीदोषः॥१२॥ खलीनमिब रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनाहियवर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः।१३। वायसस्येवेतस्ततो नयनगोलकभ्रमणं दिगवेक्षणं वा वायसदोषः ।१४। षट्पदिकाभयेन कपित्थवच्चोलपट्ट संवृत्य मुष्टो गृहीत्वा स्थानं कपित्थदोषः, 'एवमेव मुष्टिं बद्ध्वा स्थानम्' इत्यन्ये ॥१५॥ भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः।१६। मूकस्येवाव्यक्तशब्दं कुर्वतः स्थान मूकदोषः।१७। आलापकगणनार्थमगुलीचालयतः स्थानमङ्गुलिदोषः॥१८॥ व्यापारान्तरनिरुपणार्थ भ्रनृत्तं कुर्वतः स्थानं भ्रूदोषः।१९। निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः, 'वारुणीमत्तस्येव घूर्णमानस्य स्थान वारुणीदोषः इत्यन्ये ॥२०॥ अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः ॥२१॥ यदाहुः
1॥४९६॥