________________
तृतीय
योगशास्त्रम्
प्रकाशा
॥४९५॥
१एवं चिय चउमासे वरिसे अ जहक्कम विही णेओ । पक्खचउमास वरिसेसु नवरि नामम्मि नाणत्तं ॥३२॥ तह उस्सग्गोज्जोआ बारस वीसा समंगलिग चत्ता। संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥३३॥ प्रतिक्रमणसूत्रविवरण तु ग्रन्थविस्तरभयाद् नोक्तम् ॥
अथ कायोत्सर्गः । कायस्य शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गस्त्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोत्सर्गः । स च द्विविधः, चेष्टायामभिभवे च। चेष्टायां गमनागमनादावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजयार्थम् ; यदाहुः२सो उस्सग्गो दुविहो चेहाए अभिभवे अ नायव्वो । भिक्खायरिया पढमो उसग्गभिउंजणे बीओ ॥१॥
तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पश्चशती-अष्टोत्तरसहस्रोच्छ्वासान् यावद् भवति, अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिख भवति । स च कायोत्सर्ग उच्छ्रित-निषण्णशयितभेदेन त्रेधा । एकैकश्चतुर्धा-उच्छ्रितोच्छूितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत उच्छ्तिो धर्मध्यानशुक्लध्याने इति प्रथमः। तथा द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति द्वितीयः। द्रव्यतो नोच्छ्रितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः। न द्रव्यतो नापि भावत उच्छित
(१) एवमेव चतुर्मासे वर्षे च यथाक्रमं विधिज्ञेयः। पक्षचतुर्मासवर्षे पु; नवरं नाम्नि नानात्वम् ॥ ३२ ॥ तथोत्सर्ग उद्योता द्वादश विंशतिः समङ्गलिकाश्चत्वारिंशत् । संबुद्धक्षमणास्तिसः पश्च सप्त साधूनां यथासंख्यम्३३ (२) स उत्सर्गों द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षेर्यायां प्रथम उत्सर्गाभियोजने द्वितीयः॥१॥
॥४९५।