SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥३॥ Fotoohora पन्नगस्य कौशिकत्वं पूर्वभवस्थितकौशिक गोत्रत्वेन बुध्यस्व कौशिकेति भगवता तथैव भाषितत्वेन च । सुरेन्द्रस्य तु कौशिकत्वं कौशिकाभिधानात् । पादस्पर्शश्च पन्नगस्य दर्शनबुद्धया सुरेन्द्रस्य च भक्त्यतिशयेन । निर्विशेषमस्व च भगवतो द्वेषरागविशेषरहितत्वेन माध्यस्थ्यात् ।। सम्प्रदाय गम्यश्चायमर्थस्तथाहि श्री वीरः प्राणतस्वर्गपुष्पोत्तर विमानतः । पूर्वजन्मार्जितौजस्वितीर्थ नामकर्म्मकः ॥ १॥ ज्ञानवि सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् ||२|| (युग्मं ) सिंहो गजो वृषः साभिषेकश्रीः खक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ||३|| विमानं रत्नपुञ्जश्च निर्धूमाग्निरिति क्रमात् । देवी चतुर्द्दश स्वापश्यत्तत्र गर्भगे ||४|| त्रैलोक्योद्योतकृद्देवदानवासनकम्पकृत् । अपि नारकजन्तूनां क्षणदत्तमुखासिकम् ||५|| प्रभुः सुखं सुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिक्कुमार्यश्च सूतिकर्माणि चक्रिरे (युग्मम्) ||६|| अथ जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूर्ध्नि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ||७|| इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते ? । इत्याशशङ्के शक्रेण भक्तिकोमलचेतसा ||८|| तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ||९|| शिरांसि मेरोरनमन्नमस्कर्त्तुमिव प्रभुम् । तदन्तिकमिवायातुमचलंश्च कुलाचलाः॥१०॥ अतुच्छमुच्छलन्ति स्म स्नात्रं कर्त्तुमिवार्णवाः । विवेषे सत्वरं तत्र नर्त्तनाभिमुखेव भूः ॥११॥ किमेतदिति सञ्चिन्त्यावधिज्ञानप्रयोगतः । लायितं भगवतो विदाञ्चक्रे विडौजसा ||१२|| स्वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्म्यं कथङ्कारं तवेदृशम् ॥१३॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः ॥ १४॥ EOLOOKDEO REETY GREENS योग गर्भ स्तुतिः ॥३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy