________________
मलादि
योगशास्त्रम्
॥२॥
विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१॥
इति लक्षणाग्निरुक्ताद्वा वीरः महांश्चासावितरवीरापेक्षया वीरश्च महावीरः इदं च जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारं सोदेति शकशङ्काशकुँसमुद्धरणाय भगवता वामचरणागुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितसरित्पतिक्षोभशङ्कितब्रह्माण्डमाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिभवप्ररूढप्रौढकर्मसमुन्मूलनबलेन यथार्थीकृतं च भगवता। वर्द्धमान इति तु नाम मातरपितराभ्यां कृतम् । श्रमणो देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वानापायापगमातिशयः । अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः १ । अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पृजातिशयः २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः, योगिनोऽवधिजिनादयस्तेषां नाथो विमलकेवलबलावलोकितलोकालोकस्वभावो भगवानेव ३। तायिने इत्यनेन तु वचनातिशयः ४ । तायी सकलसुरासुरमनुजतिरश्चां पालकः । पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यादेर्व्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति ॥१॥
पुनर्योगगां स्तुतिमाहपन्नगे च सुरेन्द्रे च कौशिके पदिसंस्पृशि। निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥२॥
॥शा