________________
अहम श्रीवृद्धिचन्द्रगुरुभ्यो नमः। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
योगशास्त्रम्।
स्वोपज्ञविवरणसहितम् । प्रणम्य सिद्धाद्भुतयोगसम्पदे श्रीवीरनाथाय बिमुक्तिशालिने। स्वयोगशास्त्रार्थविशेषनिर्णयो भव्यावबोधाय मया विधास्यते॥१॥
___ तस्य चायमादिश्लोकः नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥१॥ अत्र महावीरायेति विशेष्यपदम् । विशेषेण ईरयति क्षिपति कर्मांणीति वीरः ।