________________
योगशास्त्रम्
तृतीय
प्रकाशा
il૮૭ી
मिच्छा मि दुक्कडं।
व्याख्या- किचि यत् किंचित् सामान्यतो निरवशेष वा, अपत्तिय' आपत्वादप्रीतिकमप्रीतिमात्रम्, 'परपत्ति' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकम्, उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युष्मद्विषये मम जातं युष्माभिर्वा मम जनितमिति वाक्यशेषः, तस्स मिच्छामि इत्युत्तरेण संबन्धः तथा, 'भत्ते' भक्ते भोजनविषये 'पाणे' पानविषये, 'विणए' विनयेऽभ्युत्थानादिरूपे, 'वेआवच्चे' वैयापृत्ये वैयावृत्त्ये वा औषधपथ्यादिनाऽवष्टम्भरूपे 'आला आलापे सकृज्जल्परूपे, 'सलावें लापे मिथ:कथारूपे, 'उच्चासणे गुरोरासनादुश्चैरासने, समासणे' गुर्वासनेन तुल्ये आसने, 'अन्तरभासाए' अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम्, 'उवरिभासाए' उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् एषु भक्तादिषु 'जं किंचि' यत् किश्चित् समस्तं सामान्यतो वा, 'मज्झ' मम, 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं 'संजातम्' इति शेषः। विनयपरिहीनस्यैव द्वैविध्य माह-मुहुमं वा बायरं वा' सूक्ष्ममल्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनाथौं, 'तुम्भे जाणहेति' यूयं जानीथ, सकलभाववेदकत्वात् अहं न 'याणामि' अहं पुनर्न जानामि, मूढत्वात्, तथा 'यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि, स्वयं कृतत्वात, तथा, यूयं न जानीथ, परेण कृतत्वादिना, अहं न जानामि, विस्मरणादिना, तथा यूयमपि जानीथ, अहमपि जानामि, द्वयोः प्रत्यक्षत्वात् एतदपि द्रष्टव्यम्, 'तस्स' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिकविषये विनयपरिहीणविषये च 'मिच्छा मि दुक्कडं' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुपात्तसूचकं
४८७॥