________________
योगशास्त्रम्
तृतीय प्रकाशः
11४८६॥
दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह, अस्यातिचारस्य किमित्याह 'इच्छाकारेण संदिसहेति, आत्मीयेच्छया मम प्रतिक्रमणज्ञां प्रयच्छत, इत्युक्त्वा तूष्णीको गुरुमुख प्रेक्षमाण आस्ते । ततो गुरुराह-'पडिकमह' प्रतिक्रामत (क्राम) । ततः शिष्यः प्राह-'इच्छ' इच्छाम्येतद् भगवद्वचः, 'तस्स' तस्य दैवसिकातिचारस्य 'मिच्छामि दुकडं' आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । तथा, द्वितीयच्छन्दनकावग्रहान्तः स्थित एव विनेयोऽर्धावनत कायः स्वापराधक्षामणां चिकीर्षुगुरुं प्रतीदमाह-'इच्छाकारेण संदिसह इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनवेलाभियोगादिना संदिशत आज्ञां प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह-'अब्भुडिओ अम्हि अभितरदेवसि खामेमि' अभ्युत्थितोऽस्मि प्रारब्धोस्मि अहम् अनेनाभिलाषमात्रस्य व्यपोहेन क्षमणाक्रियायाः प्रारम्भमाह-'अभितरदेवसि इति दिवसाभ्यन्तरसंभवम् अतीचारम्' इति गम्यते, क्षमयामि मर्पयामि, इत्येका वाचना । अन्ये त्वेवं पठन्ति-'इच्छामि खमासमणो अन्भुडिओ अम्हि अभितरदेवसि खामेउं इति, इच्छामि अभिलपामि क्षमयितुम् इति योगः, हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु 'अन्मुडिओ अम्हि इत्यादि पूर्ववदेव । एवं स्वाभिप्राय प्रकाश्य तूष्णीमास्ते यावद् गुरुराह-'खामेह' इति क्षमयस्वेत्यर्थः। ततः स गुरुवचनं बहु मन्यमान आह-'इच्छं खामेमि इति, इच्छं इच्छामि भगवदाज्ञाम्, खामेमि क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत् पञ्चभिरकैः स्पृष्टधरणीतलो मुखवत्रिकया स्थगितवदनदेश इदमाह-ज किंचि अपत्तिय परपत्ति भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए ज किंचि मज्झ विणयपरिहीणं मुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स
॥४८६॥