________________
तृतीय
योगशास्त्रम्
प्रकाशः
॥४८५॥
चारः, 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं' तिमृणां गुप्तीनां 'यत् खण्डितम्' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनात्मिकास्तिखो गुप्तयो व्याख्याता. तासां चाश्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णा क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च, पश्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णा शिक्षावतानामुक्तस्वरूपाणाम, अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डित देशतो भग्नम्, यद् विराधितं सुतरां भग्न. न पुनरेकान्ततोऽभावमापादितम्, 'तस्स मिच्छा मि दुक्कडं' तस्य दैवसिकायतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां, कषायाणां द्वादशविधश्रावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमिदं ममेत्यर्थः ।।
अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्धचर्य सूत्रमिदं पठति-'सव्वस्स वि देवसिय दुचिंतिय दुभासिय दुच्चिट्ठिय इच्छाकारेण संदिसह।' सर्वाण्यपि लुप्तषष्ठीकानि पदानि । ततोऽयमर्थः-सर्वस्यापि दैवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते, पुनः कीदृशस्य ? दुश्चिन्तितस्य दुष्टमातरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितो
वस्येत्यर्थः, अनेन मानसमतीचारमाह, दुष्टं सावधवाग्रूपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति, दुष्टं प्रतिषिदं धावनवल्गनादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य
॥४८५॥