________________
योगशास्त्रम्
શા
इत्यर्थः, ' उम्मग्गो' मार्गः क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः क्षायोपशमिकभावत्यागेनौदयिकभावसंक्रमः कृत इत्यर्थः, ' अकप्पो' कल्पो न्यायो विधिराचारश्वरणकरणव्यापार इति यावत्, न कल्पोऽकल्पोऽतद्रूप इत्यर्थः करणीयः सामान्येन कर्त्तव्यः न करणीयोऽकरणीयः हेतुहेतुमद्भावश्चात्र यत एवोत्त्रोऽत एवोन्मार्ग इत्यादि. उक्तस्तावत् कायिको वाचिकश्च । अधुना मानसिकमाह – ' दुज्झाओ' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्त तयाssर्तरौद्रलक्षणः 'दुव्विचितिओ' दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया '१जं थिरमझवसाणं तं झाणं जं चलं तयं चित्तं' इति वचनात् यत एवेत्थंभूतस्तत एव 'अणायारो' आचरणीयः श्रावकाणामाचारः, न आचारोऽनाचारः, यत एवानाचरणीयोऽत एव 'अणिच्छियव्वो' अनेष्टव्यः मनागपि मनसापि न एष्टव्य आस्तां तावत् कर्तव्यः, यत एथेत्थंभूतोऽत एव 'असावगपाउग्गो' अश्रावकप्रायोग्यःअभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवस यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी श्रृणोतीति श्रावस्तस्य प्रायोग्य उचितः श्रावकप्रायोग्यः, न तथा श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये भवतीत्याह - 'णाणे दंसणे चरित्ताचरिते' इति, ज्ञानविषये दर्शनविषये, स्थूलसावद्ययोगनिवृत्तभावाच्चारित्रं च सूक्ष्म सावद्ययोगनिवृत्यभावादचारित्रं च चारित्राचारित्रं तस्मिन देशविरतिविषये इत्यर्थः । अधुना भेदेन व्याचष्टे - ' सुए ' श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम्, तत्र विपरीतप्ररूपणा, अकालस्वाध्यायश्चाति
(१) यत् स्थिरमध्यवसायं तद् ध्यानं यच्चलं तश्चित्तम् ।
तृतीय प्रकाशः
४८४॥