________________
योग
तृतीय प्रकाश
शाखम्
॥४८८॥
स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा, तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम; तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति । बन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा प्रतिक्रमणे तयोरवसरः वन्दनकस्य च फलं कर्मनिर्जरा, यदाहु:
वंदणएणं भंते! जीवे किं अज्जिणइ ? । गोअमा ! अट्ठ कम्मपयडीओ निविडबंधणबद्धाओ सिढिलबंधणबद्धाओ करेइ, चिरकालठिइआओ अप्पकालठिइआओ करेइ, तिब्वाणुभावाओ मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, अणाइअं च णं अणवदग्गं संसारकंतारं नो परिअट्टइ । तथा,
वंदणएणं भंते ! जीवे किं अज्जिणइ ? । गोअमा! बंदणएणं नीयागोत्तकम्म खवेइ उच्चागो निबंधइ, सोहग्गं च णं अप्पडिइयं आणाफलं निव्वत्तेइ । तथा
(१) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! अष्टकर्मप्रकृतीनिबिडबन्धनबद्धाः शिथिलबन्धनबद्धाः करोति, चिरकालस्थितिकाः अल्पकालस्थितिकाः करोति, तीव्रानुभावा मन्दानुभावाः, करोति बहुप्रदेशिका अल्पप्रदेशिकाः करोति, अनादिकं चानन्तं संसारकान्तारं नो पर्यटति ।
(२) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! वन्दनकेन नीचगोत्रकर्म क्षपयति, उच्चगोत्रं निबध्नाति सौभाग्यं चाप्रतिहतमाज्ञाफलं निवर्तयति ।
॥४८८॥