________________
योगशास्त्रम्
॥४७४ ॥
चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवास्ते; 'जवणिज्जं च' यापनीयमिन्द्रियनोइन्द्रियो - पशमादिना प्रकारेणावाधितं च 'भे' भवतां ' शरीरम्' इति गम्यम् । एवं परया भक्त्या पृच्छता विनेयेन विनयः कृतो भवति । अत्रान्तरे गुरुराह — एवं आम यापनीयं च मे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह - 'खामेमि खमासमणो ! देवसियं वइक्कमं क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । अत्रान्तरे च गुरुर्वदति – 'अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं स्वं व्यतिक्रमं प्रमादोद्भवम् । ततो विनेयः प्रणमन् क्षमयित्वा 'आवसि आए' इत्यादि ' जो मे अइआरो कओ ' इत्यन्तं स्वकीयातिचार निवेदनपरमालोचनार्हप्रायश्चित्तसूचकं सूत्रं ' तस्स खमासमणो पडिक्कमामि' इत्यादिकं च प्रतिक्रमणाईप्रायश्चित्ताभिधायकं पुनरवरणेनाभ्युत्थित आत्मानं शोधयिष्यामीति बुद्धयाऽवग्रहाद् निःसृत्य पठति - अवश्यं कर्तव्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते । इत्थं सामान्येनाभिधाय विशेषेणाभिधत्तेक्षमाश्रमणानां सबन्धिन्या देवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तथा किंविशिष्टया ? त्रयस्त्रिंशदन्यतरया त्रयस्त्रिंशत्संख्यानामाशातनामन्यतरया कयाचित् उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि यतो दिवस - मध्ये सर्वा अपि संभवन्ति, ताश्च वक्ष्यन्ते यत् किश्चित् कदालम्बनमाश्रित्य मिथ्यया मिध्यायुक्तेन कृतयेत्यर्थः; मिथ्याभावोऽत्रास्तीत्यभ्रादित्वाद (दा) कारे मिथ्या, एवं क्रोधयेत्यादावपि मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमि तयेत्यर्थः, वाग्दुष्कृतया असभ्यपरुषादिवचननिमित्तया, कायदुष्कृतया आसन-गमन - स्थानादिनिमित्तया, क्रोधया
तृतीय
प्रकाशः
॥ ১৪॥